|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.132. अध्यायः 132
Mahabharata - Adi Parva - Chapter Topics
कुन्त्यां इन्द्रादर्जुनोत्पत्तिः॥ 1 ॥ तद्वेलायां आकाशवाण्यादि॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-132-0x(780)(5808)
जाते बलवतां श्रेष्ठे पाण्डुश्चिन्तापरोऽभवत्।
कथमन्यो मम सुतो लोके श्रेष्ठो भवेदिति॥ 1-132-1(5809)
दैवे पुरुषकारे च लोकोऽयं संप्रतिष्ठितः।
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते॥ 1-132-2(5810)
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्।
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः॥ 1-132-3(5811)
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्।
यं दास्यति स मे पुत्रं स वीरयान्भविष्यति॥ 1-132-4(5812)
अमानुषान्मानुषांश्च संग्रामे स हनिष्यति।
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः॥ 1-132-5(5813)
ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः।
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम्॥ 1-132-6(5814)
आत्मना च महाबाहुरेकपादस्थितोऽभवत्।
उग्रं स तप आस्थाय परमेण समाधिना॥ 1-132-7(5815)
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम्।
सूर्येण सह धर्मात्मा पर्यतप्यत भारत॥ 1-132-8(5816)
तं तु कालेन महता वासवः प्रत्यपद्यत। 1-132-9(5817)
शक्र उवाच।
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्॥ 1-132-9x(781)
ब्राह्मणानां गवां चैव सुहृदां चार्थसाधकम्।
दुर्हृदां शोकजननं सर्वबान्धवनन्दनम्॥ 1-132-10(5818)
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम्।
इत्युक्तः कारैवो राजा वासवेन महात्मना॥ 1-132-11(5819)
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन्।
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः॥ 1-132-12(5820)
दातुमिच्छति ते पुत्रं यथा संकल्पितं त्वया।
अतिमानुषकर्माणं यशस्विनमरिन्दमम्॥ 1-132-13(5821)
नीतिमन्तं महात्मानमादित्यसमतेजसम्।
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम्॥ 1-132-14(5822)
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम्।
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते॥ 1-132-15(5823)
वैशम्पायन उवाच। 1-132-16x(782)
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी।
अथाजगाम देवेन्द्रो जनयामास चार्जुनम्॥ 1-132-16(5824)
`उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यां ततो दिवा।
जातस्तु फाल्गुने मासि तेनासौ फल्गुनःस्मृतः'॥ 1-132-17(5825)
जातमात्रे कुमारे तु `सर्वभूतप्रहर्षिणी।
सूतके वर्तमानां तां' वागुवाचाशरीरिणी।
महागम्भीरनिर्घोषा नभो नादयती तदा॥ 1-132-18(5826)
शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम्।
कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम्॥ 1-132-19(5827)
कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः।
एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति॥ 1-132-20(5828)
अदित्या विष्णुना प्रीतिर्यथाऽभूदभिवर्धिता।
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः॥ 1-132-21(5829)
एष मद्रान्वशे कृत्वा कुरूंश्च सह सोमकैः।
चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति॥ 1-132-22(5830)
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः।
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम्॥ 1-132-23(5831)
ग्रामणीश्च महीपालानेष जित्वा महाबलः।
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति॥ 1-132-24(5832)
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः।
एष वीर्यवतां श्रेष्ठो भविष्यति महायशाः॥ 1-132-25(5833)
एष युद्धे महादेवं तोषयिष्यति शङ्करम्।
अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति॥ 1-132-26(5834)
निवातकवचा नाम दैत्या विबुधविद्विषः।
शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः॥ 1-132-27(5835)
तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति।
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः॥ 1-132-28(5836)
एतामत्यद्भुतां वाचं कुन्ती शुश्राव सूतके।
वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम्॥ 1-132-29(5837)
बभूव पमो हर्षः शतशृङ्गनिवासिनाम्।
तथा देवमहर्षीणां सेन्द्राणां च दिवौकसाम्॥ 1-132-30(5838)
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः।
उदतिष्ठन्महाघोरः पुष्पवृष्टिभिरावृतः॥ 1-132-31(5839)
समवेत्य च देवानां गणाः पार्थमपूजयन्।
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा।
प्रजानां पतयः सर्वे सप्त चैव महर्षयः॥ 1-132-32(5840)
भरद्वाजः खस्यपो गौतमश्च
विश्वामित्रो जमदग्निर्वसिष्ठः।
यश्चोदितो भास्करेऽभूत्प्रनष्टे
सोऽप्यत्रात्रिर्भगवानाजगाम॥ 1-132-33(5841)
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः।
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा॥ 1-132-34(5842)
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः।
उपगायन्ति बीभत्सुं नृत्यन्तेऽप्सरसां गणाः॥ 1-132-35(5843)
तथा महर्षयश्चापि जेपुस्तत्र समन्ततः।
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः॥ 1-132-36(5844)
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः॥ 1-132-37(5845)
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा।
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः॥ 1-132-38(5846)
कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः।
ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः॥ 1-132-39(5847)
ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः।
विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा॥ 1-132-40(5848)
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू।
इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप॥ 1-132-41(5849)
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः।
ननृतुर्वै महाभागा जगुश्चायतलोचनाः॥ 1-132-42(5850)
अनूचानाऽनवद्या च गुणमुख्या गुणावरा।
अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा॥ 1-132-43(5851)
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा।
अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा॥ 1-132-44(5852)
असिता च सुबाहुश्च सुप्रिया च वपुस्तथा।
पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी॥ 1-132-45(5853)
काम्या शारद्वती चैव ननृतुस्तत्र संघशः।
मेनका सहजन्या च कर्णिका पुञ्जिकस्थला॥ 1-132-46(5854)
ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि।
उम्लोचेति च विख्याता प्रम्लोचेति च ता दश॥ 1-132-47(5855)
उर्वश्येकादशी तासां जगुश्चायतलोचनाः।
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा॥ 1-132-48(5856)
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः॥ 1-132-49(5857)
इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः॥ 1-132-50(5858)
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः।
अजैकपादहिर्बुध्न्यः पिनाकी च परंतप॥ 1-132-51(5859)
दहनोऽथेश्वरश्चैव कपाली च विशांपते।
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे॥ 1-132-52(5860)
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः।
विश्वेदेवास्तथा साध्यास्तत्रासन्परितः स्थिताः॥ 1-132-53(5861)
कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः।
कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः॥ 1-132-54(5862)
आययुस्तपसा युक्ता महाक्रोधा महाबलाः।
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः॥ 1-132-55(5863)
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः।
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः॥ 1-132-56(5864)
तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः।
विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः॥ 1-132-57(5865)
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः।
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवं प्रति॥ 1-132-58(5866)
पाण्डुः प्रीतेन मनसा देवतादीनपूजयत्।
पाण्डुना पूजिता देवाः प्रत्यूचुर्नरसत्तमम्॥ 1-132-59(5867)
प्रादुर्बूतो ह्ययं धर्मो देवतानां प्रसादतः।
मातरिश्वा ह्ययं भीमो बलवानरिमर्दनः॥ 1-132-60(5868)
साक्षादिन्द्रः स्वयं जातः प्रसादाच्च शतक्रतोः।
पितृत्वाद्देवतानां हि नास्ति पुण्यतरस्त्वया॥ 1-132-61(5869)
पितॄणामृणनिर्मुक्तः स्वर्गं प्राप्स्यसि पुण्यभाक्।
इत्युक्त्वा देवताः सर्वा विप्रजग्मुर्यथागतम्॥ 1-132-62(5870)
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः।
प्रादिशद्दर्शनीयार्थी कुन्ती त्वेनमथाब्रवीत्॥ 1-132-63(5871)
नातश्चतुर्थं प्रसवमापस्त्वपि वदन्त्युत।
अतःपरं स्वैरिणी स्याद्बन्धकी पञ्चमे भवेत्॥ 1-132-64(5872)
स त्वं विद्वन्धर्ममिममधिगम्य कथं नु माम्।
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे॥ ॥ 1-132-65(5873)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः॥ 132 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-132-8 सूर्येण सह उदयादस्तमयावधि॥ द्वात्रिंशदधिकशततमोऽध्यायः॥ 132 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|